Kaviyon Ki Yaad Mein ( Sansmaran ) Kantikumar Jain(Paperback, Hindi, Kantikumar Jain)
Quick Overview
Product Price Comparison
किञ्चित्कालानन्तरं युद्ध प्रारम्भ अपेक्षित आसीत्। तदैव युधिष्ठिर: स्वरथादवतीर्य त्वरित गत्या कौरव सेनां प्रति प्रस्थित:। तद् दृष्टवा सर्वेऽपि पाण्डवास्तत्पक्षे स्थिता अन्ये च योद्धार: परमं विस्मयं गता:। अस्मिन् विषये युधिष्ठिर: किं चिकीर्षतीति तेषां मनसि नाना विकल्पा: प्रादुर्भूता: कौरवास्तत्पक्षपातिनश्च युधिष्ठिरोऽस्मदीयां विशालां सेनां वीक्ष्य याभिभूत इति तेषां मनसि बितर्क: प्रारब्ध:। पाण्डवा अपि सुतरां क्षुब्धास्तं कौरवसेनां प्रति गमनतो वारणाय महान्तं प्रयत्नमाचेरु:। तत्सर्वमनादृत्य राजा (युधिष्ठिर:) प्रतिष्ठमान एवासीत्। प्रथमं स भीष्मरथं प्राप्य तं प्रदक्षिणीकृत्य भीष्मं च सविनयं प्रणम्य तं युद्धानुमतिं ययाचे। स तं दृष्टवा तमाशीभिर्वर्धयाञ्चक्रे उवाच च कथमत्र भवत्सु सेनाधिपत्यमाचरत्सु स्व विजय: सम्भाव्यत इति। युधिष्ठिरेणोक्ते प्राह भीष्म: सत्यमेतत् मम शस्त्रत्यागस्तव विजयश्च सम्भवेतां यदा कश्चिन्नपुंसको वा भूतपूर्वं नपुंसक: तदैव मया युध्येत। श्रुत्वा तद् युधिष्ठिरस्तद्रथं परिक्रम्य सादरं च तं प्रणम्य लब्धस्तद्वधच्छिद्रस्तत: परावृत्य द्रोणरथमुपैत्।